अथ स्वातन्त्र्ययत्नविचारेउपायेषु

स्थाननिश्चयविचारः।

तद्धितं यद्वयं यत्र कुत्रापि जीवितुं शक्ताः स्म। तथापि प्रारम्भे सन्निवेशायान्योऽन्यमवद्भिः समनोभिर्जनैः सह प्राकृतजीवनवृत्तिं शिक्षितुं चैकं स्थानं निश्चेतव्यमेव। तत्कीदृशं स्यादित्यत्र बहु चिन्तनीयम्। अत्रास्माकं मतं प्रकटयामः।

तत्र जलं सुलभं स्यात्। जनसम्मर्दो न स्याद्यादृश उत्तरप्रदेशादिषु राज्येषु दृश्यते। नगराणि विरलानि स्युः। यतो हि तन्त्रे क्षीयमाणे बहुजने प्रदेशे चौरकर्माण्यतितरां वर्धिष्यन्ते। अथ वनानि स्युः समीपतः समिदाहरणाय पशुभ्यस्तृणादिसम्पादनाय च।

परिवेशी जनः सरलः स्यात्।

अस्मभ्यं नर्मदाप्रदेशोऽततिरां रोचते सर्वथा। तत्रत्या वनवासिनोऽपि सरलाः सन्ति।

अन्येऽप्यत्र विचाराः सन्ति यान्कालक्रमेण कथयिष्यामः।

इति स्थाननिश्चयविचारः।