अथ स्वातन्त्र्ययत्नविचारे। उपायेषु।
अजपालनमहत्त्वम्।
अजानामन्नसंपादने विशिष्टं स्थानम्। ते गोभ्योऽधिकवैविध्यतरं वनस्पतिमदति। अनावृष्टेः कारणादल्पशाद्वलत्वं सोढुं शक्ताः। अद्य प्राकृतिकशाद्वलान्यल्पान्येव। सर्वत्र कृषिः प्रवर्तिता। वनानि च प्रशासनस्य नियन्त्रणे सन्ति। एवं सति गोभ्यः तृणं कृषकेभ्य एव लब्धुं शक्यते। तत्कृमिहत्यायै विषेण सिच्यते। अतस्तदविचार्य न ग्राह्यम्। अजास्तु वृक्षाणां पर्णैरपि पुष्यन्ति।
वेदेऽप्यजानां महत्त्वम्। देवं पूषणं वहन्ति ते।
आ॑ ते र॑थस्य पूष–
न्नजा॑ धु॑रं ववृत्युः।
इत्यजपालनमहत्त्वम्।