महत्त्वम्।
वैश्विक उद्योगतन्त्रेऽनाश्रयस्य द्विविधं महत्त्वम्। तत्र प्रथमं यदनाश्रितानां बुद्धिस्तेन तन्त्रेण यदृच्छया न नियन्त्र्यते। य आश्रितास्त्वन्नं मनोविनोदं चान्यच्च सर्वं तन्त्रादेव लभन्ते तेषां मनो बुद्धिश्च तस्य मायया विक्रियते। कृत्रिमं स्वाद्वप्यहितमन्नमत्तुं वित्तोपार्जनाय तन्त्रस्यैव भृत्यत्वं स्वीकुर्वन्ति। अन्यथाऽपि बहुधा परिचाल्यन्तेऽहितकर्मसु योज्यन्ते च। तदन्यत्र कथयिष्यामः।
द्वितीयं यत्कालेन क्षीयमाणेनोद्योगेन सह वयमस्माकं सन्ततयश्च न म्रियेयुरित्येतदर्थमनाश्रय आवश्यकः। यस्तु नागरो जनः सर्वथाश्रितः स तन्त्रस्य साहाय्यं विना मासमपि न जीवितुं शक्नोति। तन्त्रेणोपायैर्बह्वन्नमुत्पाद्यते। तेषु भ्रष्टेषु पृथिवीयं जनस्य दशममपि भागं न भर्तुं शक्नोति। केचिदेव जीविष्यन्ति। तेषु जीवत्स्वस्माकं सन्ततयः स्युरनाश्रितास्तन्त्रे।
इति स्वातन्त्र्यमहत्त्वं संक्षेपेण।